|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.52. अध्यायः 052
Mahabharata - Virata Parva - Chapter Topics
भीष्मेण दुर्योधनंप्रति हेतूपन्यासपूर्वकं युधिष्ठिरंप्रति श्रुतवनवासादिकालस्य परिसमाप्तिकथनम् ॥ 1 ॥ भीष्मेणार्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवैः सह संधिविधानेपि दुर्योधनेन तत्प्रतिषेधनम् ॥ 2 ॥ भीष्मेण द्रोणवचनाद्गोभिः सह दुर्योधनस्य प्रस्थापनपूर्वकं सेनाया व्यूहीकरणेन समराभियानम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
भीष्म उवाच। 4-52-0x(3214)(30521)
कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च।
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ॥ 4-52-1(30522)
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि।
एवं कालविभागेन कालचक्रं प्रवर्तते ॥ 4-52-2(30523)
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात्।
पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ ॥ 4-52-3(30524)
एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः ।
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥ 4-52-4(30525)
पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः ॥ 4-52-5(30526)
सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम्।
एवमेतद्भ्रुवं ज्ञात्वा ततो बीभत्सुरागतः ॥ 4-52-6(30527)
सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः।
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ॥ 4-52-7(30528)
कामात्क्रोधाच्च लोभाच्च कामक्रोधभयादपि ।
स्नेहाद्वा यदि वा मोहाद्धर्मं नात्येति धर्मजः ॥ 4-52-8(30529)
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्।
न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः ॥ 4-52-9(30530)
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः ।
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ॥ 4-52-10(30531)
यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् ।
वृणुयुर्माणं पार्था नानृतत्वं कथंचन ॥ 4-52-11(30532)
प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः ।
अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः ॥ 4-52-12(30533)
प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम् ॥ 4-52-13(30534)
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम्।
तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम् ॥ 4-52-14(30535)
न हि पश्यामि संग्रामे कदाचिदपि कौरव ।
एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनञ्जयः ॥ 4-52-15(30536)
संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ ।
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ॥ 4-52-16(30537)
तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् ।
क्रियतामाशु राजेन्द्र संप्राप्तश्च धनञ्जयः ॥ 4-52-17(30538)
एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः ।
भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे ।
तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे ॥ 4-52-18(30539)
दुर्योधन उवाच। 4-52-19x(3215)
नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह।
ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो ।
युद्धोपचारिकं यत्तु तत्सर्वं संविधीयताम् ॥ 4-52-19(30540)
वैशम्पायन उवाच। 4-52-20x(3216)
भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च।
प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्वाह द्विजोत्तमः ॥ 4-52-20(30541)
यत्तु युद्धोपचरितं भवेद्वा धर्मसंहितम्।
कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि ॥ 4-52-21(30542)
अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ।
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ॥ 4-52-22(30543)
राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु ।
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ।
वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम् ॥ 4-52-23(30544)
अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा।
प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम् ॥ 4-52-24(30545)
एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति ।
मत्स्यं वा पुनरायातमथवापि शतक्रतुम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥ 4-52-25(30546)
वैशम्पायन उवाच। 4-52-26x(3217)
तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना ।
तथाहि कृतवान्राजा कौरवाणामनन्तरम् ॥ 4-52-26(30547)
भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् ।
सेनामुख्यान्व्यवस्थाप्य व्यूहितुं संप्रचक्रमे ॥ 4-52-27(30548)
द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान्।
आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः।
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ॥ 4-52-28(30549)
विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः।
शकुनिः सौबलश्चैव दुःसहश्च महाबलः ।
द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः ॥ 4-52-29(30550)
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः।
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ॥ 4-52-30(30551)
सर्वे महारथाः शूरा महेष्वासा महाबलाः ।
युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि ॥ 4-52-31(30552)
वैशम्पायन उवाच। 4-52-32x(3218)
अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः ।
वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् ॥ 4-52-32(30553)
तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः ।
सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत ॥ ॥ 4-52-33(30554)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विपञ्चाशोऽध्यायः ॥ 52 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-52-18 तस्माद्यद्धोचितं कर्मेति धo पाठः ॥ 18 ॥ 4-52-32 पद्मगर्भमिति थo पाठः ॥ 32 ॥ ॥ द्विपञ्चाशोऽध्यायः ॥ 52 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|