(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.52. अध्यायः 052
Mahabharata - Virata Parva - Chapter Topics
भीष्मेण दुर्योधनंप्रति हेतूपन्यासपूर्वकं युधिष्ठिरंप्रति श्रुतवनवासादिकालस्य परिसमाप्तिकथनम् ॥ 1 ॥ भीष्मेणार्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवैः सह संधिविधानेपि दुर्योधनेन तत्प्रतिषेधनम् ॥ 2 ॥ भीष्मेण द्रोणवचनाद्गोभिः सह दुर्योधनस्य प्रस्थापनपूर्वकं सेनाया व्यूहीकरणेन समराभियानम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text

भीष्म उवाच। 4-52-0x(3214)(30521)
कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च।
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ॥ 4-52-1(30522)
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि।
एवं कालविभागेन कालचक्रं प्रवर्तते ॥ 4-52-2(30523)
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात्।
पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ ॥ 4-52-3(30524)
एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः ।
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥ 4-52-4(30525)
पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः ॥ 4-52-5(30526)
सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम्।
एवमेतद्भ्रुवं ज्ञात्वा ततो बीभत्सुरागतः ॥ 4-52-6(30527)
सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः।
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ॥ 4-52-7(30528)
कामात्क्रोधाच्च लोभाच्च कामक्रोधभयादपि ।
स्नेहाद्वा यदि वा मोहाद्धर्मं नात्येति धर्मजः ॥ 4-52-8(30529)
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्।
न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः ॥ 4-52-9(30530)
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः ।
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ॥ 4-52-10(30531)
यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् ।
वृणुयुर्माणं पार्था नानृतत्वं कथंचन ॥ 4-52-11(30532)
प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः ।
अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः ॥ 4-52-12(30533)
प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम् ॥ 4-52-13(30534)
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम्।
तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम् ॥ 4-52-14(30535)
न हि पश्यामि संग्रामे कदाचिदपि कौरव ।
एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनञ्जयः ॥ 4-52-15(30536)
संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ ।
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ॥ 4-52-16(30537)
तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् ।
क्रियतामाशु राजेन्द्र संप्राप्तश्च धनञ्जयः ॥ 4-52-17(30538)
एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः ।
भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे ।
तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे ॥ 4-52-18(30539)
दुर्योधन उवाच। 4-52-19x(3215)
नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह।
ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो ।
युद्धोपचारिकं यत्तु तत्सर्वं संविधीयताम् ॥ 4-52-19(30540)
वैशम्पायन उवाच। 4-52-20x(3216)
भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च।
प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्वाह द्विजोत्तमः ॥ 4-52-20(30541)
यत्तु युद्धोपचरितं भवेद्वा धर्मसंहितम्।
कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि ॥ 4-52-21(30542)
अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ।
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ॥ 4-52-22(30543)
राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु ।
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ।
वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम् ॥ 4-52-23(30544)
अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा।
प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम् ॥ 4-52-24(30545)
एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति ।
मत्स्यं वा पुनरायातमथवापि शतक्रतुम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥ 4-52-25(30546)
वैशम्पायन उवाच। 4-52-26x(3217)
तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना ।
तथाहि कृतवान्राजा कौरवाणामनन्तरम् ॥ 4-52-26(30547)
भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् ।
सेनामुख्यान्व्यवस्थाप्य व्यूहितुं संप्रचक्रमे ॥ 4-52-27(30548)
द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान्।
आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः।
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ॥ 4-52-28(30549)
विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः।
शकुनिः सौबलश्चैव दुःसहश्च महाबलः ।
द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः ॥ 4-52-29(30550)
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः।
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ॥ 4-52-30(30551)
सर्वे महारथाः शूरा महेष्वासा महाबलाः ।
युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि ॥ 4-52-31(30552)
वैशम्पायन उवाच। 4-52-32x(3218)
अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः ।
वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् ॥ 4-52-32(30553)
तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः ।
सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत ॥ ॥ 4-52-33(30554)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विपञ्चाशोऽध्यायः ॥ 52 ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-52-18 तस्माद्यद्धोचितं कर्मेति धo पाठः ॥ 18 ॥ 4-52-32 पद्मगर्भमिति थo पाठः ॥ 32 ॥ ॥ द्विपञ्चाशोऽध्यायः ॥ 52 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.